हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Bala Karpura Stotram – श्री बाला कर्पूर स्तोत्रम्

कर्पूराभेन्दुगौरां शशिशकलधरां रक्तपद्मासनस्थां
विद्यापात्राक्षमुद्राधृतकरकमलां त्वां स्मरन् सन् त्रिलक्षम् ।
जप्त्वा चन्द्रार्धभूषं सुरुचिरमधरं बीजमाद्यं तवेदं
हुत्वा पश्चात्पलाशैः स भवति कविराड्देवि बाले महेशि ॥ १ ॥

हस्ताब्जैः पात्रपाशाङ्कुशकुसुमधनुर्बीजपूरान् दधानां
रक्तां त्वां संस्मरन् सन् प्रजपति मनुजो यस्त्रिलक्षं भवानि ।
वामाक्षी चन्द्रसंस्थं क्षितिसहितविधिं कामबीजं तवेदं
चन्द्रैर्हुत्वा दशांशं स नयति सकलान् वश्यतां सर्वदैव ॥ २ ॥

विद्याक्षज्ञानमुद्राऽमृतकलशधरां त्वां मनोज्ञां किशोरीं
स्मेरां ध्यायंस्त्रिनेत्रां शशधरधवलां यो जपेद्वै त्रिलक्षम् ।
जीवं सङ्कर्षणाढ्यं तव सुरनमिते सर्गयुक्तं सुबीजं
हुत्वाऽन्ते मालतीभिर्भवति स ललिते श्रीयुतो भोगवांश्च ॥ ३ ॥

ध्यायंस्त्वां पुस्तकाक्षाभयवरदकरां लोहिताभां कुमारीं
कश्चिद्यः साधकेन्द्रो जपति कुलविधौ प्रत्यहं षट्सहस्रम् ।
मातर्वाङ्मारशक्तिप्रयुतमनुमिमं त्र्यक्षरं त्रैपुरं ते
भुक्त्वा भोगाननेकान् जननि स लभतेऽवश्यमेवाष्टसिद्धीः ॥ ४ ॥

आरक्तां कान्तदोर्भ्यां मणिचषकमथो रत्नपद्मं दधानां
वाङ्मायाश्रीयुतान्यं मनुमयि ललिते तत्त्वलक्षं जपेद्यः ।
ध्यायन् रूपं त्वदीयं तदनु च हवनं पायसान्नैः प्रकुर्या-
-द्योगीशस्तत्त्ववेत्ता परशिवमहिले भूतले जायते सः ॥ ५ ॥

वाणी चेटी रमा वाग्भवमथ मदनः शक्तिबीजं च षड्भिः
एतैश्चन्द्रार्धचूडे भवति तव महामन्त्रराजः षडर्णः ।
जप्त्वैनं साधको यः स्मरहरदयिते भक्तितस्त्वामुपास्ते
विद्यैश्वर्याणि भुक्त्वा तदनु स लभते दिव्यसायुज्यमुक्तिम् ॥ ६ ॥

महाबिन्दुः शुद्धो जननि नवयोन्यन्तरगतो
भवेदेतद्बाह्ये वसुछदनपद्मं सुरुचिरम् ।
ततो वेदद्वारं भवति तव यन्त्रं गिरिसुते
तदस्मिन् त्वां ध्यायेत्कहरिहररुद्रेश्वरपदाम् ॥ ७ ॥

नवीनादित्याभां त्रिनयनयुतां स्मेरवदनां
महाक्षस्रग्विद्याऽभयवरकरां रक्तवसनाम् ।
किशोरीं त्वां ध्यायन्निजहृदयपद्मे परशिवे
जपेन्मोक्षाप्त्यर्थं तदनु जुहुयात् किंशुकसुमैः ॥ ८ ॥

हृदम्भोजे ध्यायन् कनकसदृशामिन्दुमुकुटां
त्रिनेत्रां स्मेरास्यां कमलमधुलुङ्गाङ्कितकराम् ।
जपेद्दिग्लक्षं यस्तव मनुमयो देवि जुहुयात्
सुपक्वैर्मालूरैरतुलधनवान् स प्रभवति ॥ ९ ॥

स्मरेद्धस्तैर्वेदाभयवरसुधाकुम्भधरिणीं
स्रवन्तीं पीयूषं धवलवसनामिन्दुशकलाम् ।
सुविद्याप्त्यै मन्त्रं तव हरनुते लक्षनवकं
जपेत्त्वां कर्पूरैरगरु सहितैरेव जुहुयात् ॥ १० ॥

सहस्रारे ध्यायन् शशधरनिभां शुभ्रवसनां
अकारादिक्षान्तावयवयुतरूपां शशिधराम् ।
जपेद्भक्त्या मन्त्रं तव रससहस्रं प्रतिदिनं
तथारोग्याप्त्यर्थं भगवति गुडूच्यैः प्रजुहुयात् ॥ ११ ॥

कुलज्ञः कश्चिद्यो यजति कुलपुष्पैः कुलविधौ
कुलागारे ध्यायन् कुलजननि ते मन्मथकलाम् ।
षडर्णं पूर्वोक्तं जपति कुलमन्त्रं तव शिवे
स जीवन्मुक्तः स्यादकुलकुलपङ्केरुहगते ॥ १२ ॥

शिवे मद्यैर्मांसेश्चणकवटकैर्मीनसहितैः
प्रकुर्वंश्चक्रार्चां सुकुलभगलिङ्गामृतरसैः ।
बलिं शङ्कामोहादिकपशुगणान्यो विदधति
त्रिकालज्ञो ज्ञानी स भवति महाभैरवसमः ॥ १३ ॥

मनोवाचागम्यामकुलकुलगम्यां परशिवां
स्तवीमि त्वां मातः कथमहमहो देवि जडधीः ।
तथापि त्वद्भक्तिर्मुखरयति मां तद्विरचितं
स्तवं क्षन्तव्यं मे त्रिपुरललिते दोषमधुना ॥ १४ ॥

अनुष्ठानध्यानार्चामनु समुद्धारणयुतं
शिवे ते कर्पूरस्तवमिति पठेदर्चनपरः ।
स योगी भोगी स्यात् स हि निखिलशास्त्रेषु निपुणः
यमोऽन्यो वैरीणां विलसति सदा कल्पतरुवत् ॥ १५ ॥

बालां बालदिवाकरद्युतिनिभां पद्मासने संस्थितां
पञ्चप्रेतमयाम्बुजासनगतां वाग्वादिनीरूपिणीम् ।
चन्द्रार्कानलभूषितत्रिनयनां चन्द्रावतंसान्वितां
विद्याक्षाभयधारिणीं वरकरां वन्दे परामम्बिकाम् ॥ १६ ॥

इति श्रीपरातन्त्रे श्री बाला कर्पूर स्तोत्रम् ।


Sri Bala Stotras – श्री बाला स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.